Monday, June 28, 2021

अनुष्ठान


अनुष्ठान​

Saturday, March 14, 2015
सम्पूर्ण गणपती पूजन विधी -1
॥ श्रीगणेशाय नम:॥ 


मंगलम दिशतु मे विनायको मंगलम दिशतु मे सरस्वती ।
मंगलम दिशतु मे जनार्दनो मंगलम दिशतु मे सदा शिव॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓॥
॥ॐ शान्तिः॒ शान्तिः॒ शांतिः॥
सर्वेषु धर्मकार्येषु पत्नी दक्षिणत: शुभा। अभिषेके विप्रपादक्षालने चैव वामत:॥ (संस्कार कौस्तुभ)
अर्थात- समस्त धर्म कार्यों में पत्नी को दाहिनी ओर बैठाना चाहिए, परंतु शिवाभिषेक ब्राह्मण के पादप्रक्षालन आदि कार्यों में पत्नी को वांम भाग में बैठाना चाहिए।

आचमन 
ॐ केशवाय नम:। 
ॐ माधवाय नम:। 
ॐ नारायणाय नम:।
ॐ गंगाय नम:। 
ॐ यमुनाय नम:। 
ॐ सरस्वतियै नम:।
पवित्र मंत्र:
ॐ अपवित्र: पवित्रोवा सर्वावस्थां गतोऽपिवा। य: स्मरेत पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि:॥

पवित्रधारणम्! 
ॐ पवित्रे स्त्थो व्वैष्णव्यौसवितुर्व: प्रसवऽउत्पुनाम्यच्छिद्रेण-पवित्रेण सूर्यस्य रश्मिभि:। तस्यते पवित्रपते पवित्रपूतस्य यत्त्काम: पुनेतच्छकेयम्॥

आसन शुद्धी
ॐ पृथ्वि! त्वया धृता लोका देवि! त्वं विष्णुना धृता। त्वं च धारय मां दिवि! पवित्रं कुरु चासनम्।

मंगलतिलकम्
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः। 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥

कर्मपात्र पूजनम्
अपनी बायीं तरफ भूमि पर त्रिकोणात्मक या चतुष्कोणात्मक मण्डल बनाकर गन्धाक्षत से पूजन कर उस पर कर्मपात्र रखकर:-
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये। शं योरभि स्त्रवन्तु न:॥
गंगे! च यमुने! चैव गोदावरी! सरस्वति! नर्मदे! सिन्धु! कावेरि! जलेऽस्मिन्सन्निधिं कुरु॥

इसी तरह अड़्कुश मुद्रा से तीर्थों का आह्वाहन करें, मत्स्य मुद्रा से आच्छादित कर पञ्च प्रणव का जप करें, अब गन्धाक्षत लेकर वरुण का ध्यान करें।

वरुण ध्यानम्
ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः॥ अहेळमानो वरुणेह बोध्युरुश गुँ समान आयुः प्रमोषीः॥
(ॐ भूर्भुव: स्व: अस्मिन कलशे वरुणं साड़्गाय सपरिवाराय सायुधाय सशक्तिकाय आवाह्यामि स्थापयामि। ॐ अपां पतये बं वरुणाय नम:॥ सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि। नमस्करोमि।)

कलश का जल सामग्री में संप्रोक्षण करें।

भूतापसारणम्
पीली सरसों अथवा अक्षत लेकर पूजन-कर्मभूमि में चारो तरफ मंत्र पढते हुए भूतापसारण करें।
अपसर्पन्तु ते भूता ये भूता भूमि-संस्थिता। ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥१॥ 
अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिशम्। सर्वेषामविरोधेन पूजाकर्म समारभे ॥२॥ यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वत:। स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ॥३॥ भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसा:। स्थानदस्माद्! ब्रजन्त्यन्य त्स्वीकरोमि भुवं त्विमाम ॥४॥ भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन। ते सर्वेऽप्यपगच्छन्तु देव पूजां करोम्यहम ॥५॥

तीन बार ताली बजाकर सभी विघ्नों का अपसारण करें। भूमि में कुंकुम से त्रिकोण रेखा बनाकर पृथ्वी की पूजा करें-

आधारशक्ति पूजनम्
ॐ मही द्यौ: पृथिवी च न ऽइमं यज्ञमिमिक्षताम्। पिपृतान्नो भरीमभि:॥
भूमि का स्पर्श कर गंधाक्षत पुष्प छोड़ें। 
ॐ आधारशक्तये पृथिव्यै- नम:, कमलाशनाय नम:।

प्रार्थना 
करें.
पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥

दीप प्रज्वाल्य
क​लश के दाहिने भाग में दीपक स्थापन पूजन-
ॐ अग्निर्ज्ज्योतिषार्ज्ज्योतिष्म्मानृक्मोवर्च्चसाव्वर्च्चस्वान्। सहस्रदा ऽअसिसहस्रायत्त्वा॥ 
दीपो ज्योति: परं ब्रम्ह दीपो ज्योति: जनार्दन:। दीपो हरतु में पापं दीपज्योति: नमोऽस्तु ते ॥१॥
शुभम करोतु कल्याणम आरोग्यम धन सम्पदा। शत्रु बुद्धि विनाशाय दीपज्योति नमोस्तुते ॥२॥

गुरु ध्यानम्
गुरुर्ब्रम्हा गुरुर्विष्णु गुरुर्देवो महेश्वरः। गुरु साक्षात परब्रम्ह तस्मै श्री गुरवे नमः॥१॥
अखण्ड मण्डलाकारम्! व्याप्तम यॆन चराचरम। तत्पदम दर्शितम यॆन तस्मै श्री गुरवॆ नम:॥२॥

देव ध्यानम्
शान्ताकारम भुजगशयनम्! पद्मनाभम सुरेशम्, विश्वाधारम गगनसदृशम्! मेघवर्णं शुभाड्गम। लक्ष्मीकान्तम्! कमलनयनम योगिभिर्ध्यानगम्यम, वन्दे विष्णुम भवभयहरम सर्वलौकैकनाथम्॥

स्वस्त्ययन 
(हरि: ॐ) आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः। देवा नो यथा सदमिद्! वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥ दवानां भद्रा सुमतिरृजूयतां देवाना ग्वँग रातिरभि नो निवर्तताम्। देवाना ग्वँग सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्। अर्यमणं वरुण ग्वँग सोममश्विना सरस्वती न: सुभगा मयस्करत्! तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौ:। तद्! ग्रावाण: सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम्॥तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्! तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम्। पूषा नो यथा वेदसामसद वृधे रक्षिता पायुरदब्धः स्वस्तये॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः। अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा ग्वँग सस्तनूभिर्व्यशेमहि देवहितं यदायुः॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः॥ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता म पिता स पुत्रः। विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥ द्यौः शान्तिरन्तरिक्ष ग्वँग शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥ यतो यतः समीहसे ततो नो अभयं कुरु। शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः॥ सुशान्तिर्भवतु॥ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद भद्रं तन्न आ सुव॥

मंगल पाठ
सुमुखश्चैक दन्तश्च कपिलो गज कर्णकः। लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥१॥ ध्रूम्रकेतुर्गणाध्यक्षो भाल चन्द्रो गजाननः। द्वाद्शैतानि नामानि य: पठेच्छृणुयादपि॥२॥

संकल्प
ॐ विष्णुर्विष्णुर्विष्णु: । श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविशतितमे युगे कलियुगे कलिप्रथमचणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य अमुकक्षेत्रे अमुकदेशे अमुकनाम्निनगरे (ग्रामे वा) श्रीगड़्गायमुनयोरमुकदिग्भागे देवब्राह्मणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतोऽमुकसंख्या -परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि -संवत्सराणां मध्ये अमुकनामसंवत्सरे, अमुकायने, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, अमुकनक्षत्रे, अमुकयोगे, अमुककरणे, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थितेश्रीसूर्ये, अमुकदेवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रोत्पन्नस्य अमुकशर्मण: (वर्मण:, गुप्तस्य वा) सपरिवारस्य ममात्मन: श्रुतिस्मृतिपुराणोक्त्पुण्यफलावाप्त्यर्थं ममऐश्वर्याभिवृद्धयर्थम अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्त लक्ष्म्याश्चिरकाल संरक्षणार्थं सकलमन- इप्सितकामनासंसिद्धयर्थं लोके व सभायां राजद्वारे वा सर्वत्र यशोविजयलाभादि प्राप्त्यर्थं समस्तभयव्याधिजरापीडामृत्यु परिहारद्वारा आयुरारोग्यैश्वर्याद्यभिवृद्धर्थं तथा च मम जन्मराशे: सकाशाद्ये केचिद्विरुद्धचतुर्थाष्टमद्वादशस्थानस्थिता: क्रूरग्रहा: तै: सूचितं सूचयिष्यमाणञ्च यत्सर्वारिष्टं तद्विनाशद्वारा सर्वदा तृतीयैकादशस्थानस्थितवच्छुभफलप्राप्त्यर्थं पुत्रपौत्रदि- सन्ततेरविच्छिन्न वृद्धयर्थम्! आदित्यादिन्नवग्रहानूकूल -वासिद्धर्थम इन्द्रादि -दशदिक्पालप्रसन्नतासिद्धर्थम्। आधिदैविकाधिभौतिकाध्यात्मिका -त्रिविधतापोपशमनार्थं धर्मार्थकाममोक्षफलावाप्त्यर्थं यथा-ज्ञानं यथा -मिलितोपचारद्रव्यै: अमुक देवस्य पूजनं करिष्ये। तदड़्गत्वेन गणपत्यादि देवानां पूजनञ्च करिष्ये।
गणपती पूजा
आह्वाहन-
ॐ गणानां त्वा गणपति गुं हवामहे, प्रियाणां त्वा प्रियपति गुं हवामहे। निधीनां त्वा निधिपति गुं हवामहे, वसोमम आहमजानि गर्भधमा त्वं जासि गर्वधम्म।
ॐ अम्बे अम्बिके अम्बालिके नमा नयति कश्चन। ससस्त्यश्वकः सुभद्रिकां काम्पील वासिनीम्॥

प्राणप्रतिष्ठा-
ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्ष्पतिर्य्यज्ञामिमं तनोत्वरिष्टं य्यज्ञ गुं समिमं दधातु। विश्वे देवास ऽइह मादयन्तामो३ प्रतिष्ठ।
अस्यै प्राणा: प्रतिष्ठन्तु अस्यै प्राणा क्षरन्तु च। अस्यै प्राणा क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥ गणेशाऽम्बिके सुप्रतिष्ठते वरदे भवेताम्॥

आसनम्-
ॐ पुरुष ऽएवेद गुं सर्व्वं य्यद्भूतं य्यच्च भाव्व्यम्। उतामृतत्त्वस्येशानो यदन्नेनातिरोहति॥

पाद्यम्-
एतवानस्य महिमातो ज्ज्यायाँश्च पूरुष: । पादोस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि॥

अर्घ्यम्-
ॐ त्रिपादूध्व ऽउदैत्पुरुष: पादोस्येहा भवत्पुन: । ततो व्विष्ष्वड़ व्यक्रामत्साशनानशने ऽअभि॥

आचमनीयम्-
ॐ ततो व्विराडजायत व्विराजो ऽअधि पूरुष:। स जातोऽअत्यरिच्चयत पश्चाद्भूमिमथो पुर:॥
स्नानम्-
ॐ तस्माद्यज्ञात्त्सर्व्वहुत: सम्भृतं पृषदाज्ज्यम्। पशूँस्ताँश्च्चक्क्रे व्वायव्व्यानारण्ण्या ग्राम्याश्च ये॥

पय: स्नानम्-
ॐ पय: पृथिव्यां पयऽओषधीषु पयो दिव्व्यन्तरिक्क्षे पयोधा: । पयस्वती: प्रदिश: सन्तु मह्यम्॥

दधि स्नानम्-
ॐ दधिक्क्राव्ण्णोऽअकारिषं जिष्णोरश्श्वस्य व्याजिन:। सुरभि नो मुखा करत्त्प्रण ऽआयु गुं षि तारिष:॥

घृतस्नानम्-
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घतम्व्वस्य धाम।
अनुष्वधमावह मादयस्व स्वाहाकृतं व्वृषभ वविक्ष हव्व्यम्॥

मधुस्नानम्-
ॐ मधु व्वाता ऽऋतायते मधुक्क्षरन्ति सिन्धव: माद्घ्वीर्न्न: सन्त्वोषधा: मधु नक्क्तमुतोष्सो मधुमत्त्पार्त्थिव गुं रज: । मधु द्यौरस्तुन: पिता । मधुमान्नो व्वनस्पतिर्म्मधुमाँ२ ॥ ऽअस्तुसूर्य्य: । मास्ध्वीर्ग्गावो भवन्तु न: ।

शर्करास्नानम्-
ॐ अपा गुं रसमुद्वयस गुं रसमुद्वयम गुं समाहितम्। अपा गुं रसस्ययो रसस्तम्वो गृह्ण्णाम्म्युत्तममुपयामगृहीतोसीन्द्राय त्त्वा जुष्टं गृह्ण्णाम्म्येष तेयोनिरिन्द्राय त्त्वा जुष्ट्टतम्म्।

पञ्चामृतस्नानम्-
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्रोतस: । सरस्वती तु पञ्चधा सो देशे भवत्सरित्॥

गन्धोदकस्नानम्-
ॐ गन्धर्व्वस्त्वाव्विश्वावसु: परिदधातु व्विश्वस्या रिष्ट्यैयजमान्स्य पारीधारस्यग्निरिडऽईडित: ॥

वस्त्रम्-
ॐ सुजातो ज्योतिषा सह शर्म्म व्वरूथमासदत्स्व:। व्वासो ऽअग्ने व्विश्वरूप गुं संव्ययस्व व्विभावसो ॥

यज्ञोपवीतम्-
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्। आयुष्यमग्रमं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज: ॥

गन्धम्- (चन्दन)-
ॐ त्वां गन्धर्व्वा ऽअखनँस्त्त्वामिन्द्रस्त्वां बृहस्पति:। त्वामोषधे सोमो राजा व्विद्वान्न्यक्क्ष्मादमुच्यत॥

अक्षता:
ॐ अक्षन्नमीमदन्त ह्यवप्प्रिया ऽअधृषत। अस्त्तोषत स्वभानवो व्विप्रा नविष्ठ्ठया मती योजान्न्विन्द्र ते हरी॥

पुष्प
ॐ ओष्धी: प्रतिमोदद्धव्वं पुष्पवती: प्रसूवरी। अश्श्वा ऽइव सजित्त्वरीव्वरीरुध: पारयिष्ण्ण्व:॥

दूर्वाड़्कुरान्-
ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषष्परि। एवा नो दूर्वे प्प्रतनु सहस्रेण शतेन च॥

विल्वपत्रम्-
ॐ नमो विल्मिने च कवचिने च नमो व्वर्मिणे च वरुथिने च नम: । श्रुताय च श्रुतसेनाय च नमो दुन्दुव्भ्याय चाहनन्याय च।

कुड़्कुमम्-
कुड़्कुमं कामनादिव्यं कामनाकामसम्भवम्। कुड़्कुमेनार्चितो देव गृहाण परमेश्वर॥

सिन्दूरम्-
ॐ सिन्धोरिव प्प्राद्ध्वने शूघनासो व्वातप्प्रमिय: पतयन्ति यह्वा: ।घृतस्य धाराऽअरुषो नव्वाजी काष्ठा भिन्न्दन्नूर्मिभि: पिन्न्वमान:॥

अबीरगुलालम्-
अबीरं च गुलालञ्च चोवा चन्दनमेव च । अबीरेणार्चितो देव! अत: शान्तिं प्रयच्छ मे॥

सुगन्धितद्रव्याणि-
ॐ अ गुं शुना ते अ गुं शु: पृच्यतां परुषा परु:। गन्धस्ते सोममवतु मदाय रसोऽअच्च्युत: ॥

धूपम्-
ॐ धूरसि धूर्व्वधूर्व्वन्तं धूर्व्व वय्योरस्म्मान धूर्वति तन्धूर्व्वयं व्वयं धूव्वमि: ।
देवानामसि व्वह्नितम गुं सस्नितमं पप्प्रितमं जुष्टतमं देवहूतमम्॥

दीपम्-
ॐ अग्निज्योर्तिर्ज्जोतिरग्नि: स्वाहा सूर्यो ज्योतिर्ज्जोति: सूर्य: स्वाहा।
अग्निर्व्वर्चोज्योतिर्व्वर्च्च: स्वाहा सूर्य्योव्वर्च्चोज्योतिर्व्वर्च्च: स्वाहा। ज्योति: सूर्य्य: सूर्य्योज्योति: स्वाहा।

अथ गणेशाड़्ग पूजनम्
 (गंध, अक्षत और पुष्प आदि से भगवान गणेश की अड़्ग पूजा करें)
ह्रीं गणेश्वराय नम: पादौ पूजयामि । ह्रीं विग्नराजाय नम: जानुनी पूजयामि ।
ह्रीं आखुवाहनाय नम: उरूं पूजयामि । ह्रीं हेरम्बाय नम: कटीं पूजयामि ।
ह्रीं कामारिसूनवे नम: नाभि पूजयामि । ह्रीं लम्बोदराय नम: उदरं पूजयामि ।
ह्रीं गौरीसुताय नम: स्तनौ पूजयामि । ह्रीं गणनायकाय नम: ह्रदयं पूजयामि ।
ह्रीं स्थूलकण्ठाय नम: कण्ठं पूजयामि । ह्रीं स्कन्दाग्रजाय नम: स्कन्धौ पूजयामि ।
ह्रीं पाशहस्ताय नम: हस्तौ पूजयामि । ह्रीं गजवक्त्राय नम: वक्त्रं पूजयामि ।
ह्रीं विघ्नहर्त्रे नम: ललाटं पूजयामि । ह्रीं सर्वेश्वराय नम: शिर: पूजयामि ।
ह्रीं गणाधिपाय नम: सर्वाड़्गं पूजयामि ।

आवरण पूजनम्-
अक्षतै: पूजयेत्
ह्रीं सुमुखाय नम: । ह्रीं एकदन्ताय नम: । ह्रीं कपिलाय नम: । ह्रीं गजकर्णाय नम: ।
ह्रीं लम्बोदराय नम: । ह्रीं विकटाय नम: । ह्रीं विघ्ननाशाय नम: । ह्रीं विनायकाय नम: ।
ह्रीं धूम्रकेतवे नम: । ह्रीं गणाध्यक्षाय नम: । ह्रीं भालचन्द्राय नम: । ह्रीं गजाननाय नम: ।

गन्धाक्षतपुष्पण्यादाय –
अभीष्टसिद्धि मे देहि शरणागत वत्सल । 
भक्त्या समर्पये तुभ्यं समस्तावरणार्चनम ।
सुमखादि समस्त्वरणदेवताभ्यो नम: गन्धाक्षत पुष्पाणि समर्पयामि।
"हस्ते जलमादाय" अनेन गणपत्याड़्गवरणदेवतापूजनेन सिद्धि बुद्धि सहिताय महागणपति: प्रीयताम्।

नैवेद्यम्
ॐ नाभ्या ऽआसीदन्त..
ॐ प्राणाय स्वाहा, ॐ अपानाय स्वाहा, ॐ व्यानाय स्वाहा,
ॐ उदानाय स्वाहा, ॐ समानाय स्वाहा।

ऋतुफलम्-
ॐ या: फलिनीर्या ऽअफला ऽअपुष्पायाश्च पुष्पिणी:। बृहस्पतिप्रसूतास्त्ता नो मुञ्चन्त्व गुं हस: ॥

दक्षिणा
ऊँ हरिण्यगर्भ: समवर्तमाग्रे भूतस्य जात: परिरेकऽआसीत। 
सदाधार पृथिवीन्द्यामुतेमाकस्मै देवाय हविषा विधेम।

विशेषार्घ्य
- ताम्रपात्र में जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्र को हाथ में लेकर निम्नलिखित मन्त्र पढें:-

ॐ रक्ष रक्ष गणाध्यक्ष त्रैलोक्यरक्षक:। भक्तानामभयं कर्ता त्राता भव भवार्णवात ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो! । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
गृहाणार्घ्यमिमं देव सर्वदेवनमस्कृतम्। अनेन सफलार्घेण फलदोऽस्तु सदा मम।

आरती- 
ॐ इद गुं हवि: प्रजननं में अस्तु दशवीर गुं सर्वगण गुं स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्नि: प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥ ॐ आ रात्रि पार्थिव गुं रज: पितुरप्रायि धामभि:। दिव: सदा गुं सि बृहती वि तिष्ठस आ त्वेषं वर्तते तम:॥ कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्। आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥


मन्त्र पुष्पाञ्जलि-
ॐ मालतीमल्लिकाजाती- शतपत्रादिसंयुतम। पुष्पाञ्जलिं गृहाणेश तव पादयुगार्पितम्॥
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा:॥
नानासुगन्धि पुष्पाणि यथा कालोद्भवानि च। पुष्पांजलिर्मया दत्तं गृहाण परमेश्वर॥ यानि कानि च पापानि ज्ञाता ज्ञाता कृतानि च। तानि तानि विनश्यन्तु प्रदक्षिण पदे पदे॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात कारुण्य भावेन रक्ष रक्ष परमेश्वर॥

प्रदक्षिणा-
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषा गुं सहस्रयोजनेऽव धन्वानि तन्मसि ॥ 
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणया पदे पदे ॥


॥ श्री गणपत्यथर्वशीर्ष ॥
॥ शान्ति पाठ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः॥ 
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितं यदायुः॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः॥ स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु॥ 
ॐ शांतिः शांतिः शांतिः ॥

॥ उपनिषत ॥
हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वं साक्षादात्माऽसि नित्यम ॥ १ ॥

॥ स्वरूप तत्त्व ॥
ऋतं वच्मि (वदिष्यामि)॥ सत्यं वच्मि (वदिष्यामि) ॥२॥ अव त्वं माम। अव वक्तारम॥ अव श्रोतारम। अव दातारम॥ अव धातारम।अवानूचानमव शिष्यम॥ अव पश्चात्तात। अव पुरस्तात॥ अवोत्तरात्तात। अव दक्षिणात्तात॥ अव चोर्ध्वात्तात। अवाधरात्तात॥सर्वतो मां पाहि पाहि समंतात॥३॥ त्वं वाङ्ग्मयस्त्वं चिन्मयः। त्वमानंदमयस्त्वं ब्रह्ममयः॥ त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि॥ त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥ सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति।सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनिलो नभः॥ त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः। त्वं देहत्रयातीतः॥ त्वं कालत्रयातीतः। त्वं मूलाधारः स्थिथोऽसि नित्यम ॥ त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायंति नित्यम ॥ त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम॥६॥

॥ गणेश मंत्र ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम । अनुस्वारः परतरः ॥ अर्धेन्दुलसितम । तारेण ऋद्धम ॥ एतत्तव मनुस्वरूपम । गकारः पूर्वरूपम ॥ अकारो मध्यमरूपम । अनुस्वारश्चान्त्यरूपम ॥ बिन्दुरुत्तररूपम । नादः संधानम ॥ संहितासंधिः । सैषा गणेशविद्या गणकऋषिः । निचृद्गायत्रीच्छंदः ॥ गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७ ॥

॥ गणेश गायात्री ॥
एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥ तन्नो दंतिः प्रचोदयात ॥ ८ ॥

॥ गणेश रूप ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम ॥ रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम । रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम ॥ भक्तानुकंपिनं देवं जगत्कारणमच्युतम । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

॥ अष्ट नाम गणपति ॥
नमो व्रातपतये । नमो गणपतये ॥ नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदंताय ॥ विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १० ॥

॥ फलश्रुति ॥
एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते ॥ स सर्वतः सुखमेधते ।स सर्व विघ्नैर्नबाध्यते ॥ स पंचमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ।सायंप्रातः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ।धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयम । यो यदि मोहाद्दास्यति स पापीयान भवति ॥ सहस्रावर्तनात यं यं काममधीते तं तमनेन साधयेत ॥ ११ ॥ अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥ चतुर्थ्यामनश्नजपति स विद्यावान भवति । स यशोवान भवति ।इत्यथर्वणवाक्यम ॥ ब्रह्माद्याचरणं विद्यात न बिभेति कदाचनेति ॥ १२ ॥ यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान भवति ॥ स मेधावान भवति । यो मोदकसहस्रेण यजति ॥ स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति ॥ स सर्वं लभते स सर्वं लभते ॥ १३ ॥ अष्टौ ब्राह्मणान सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।सूर्यगृहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति ॥महाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते ॥ महापापात प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत ॥ १४ ॥

॥ शान्ति मंत्र ॥
ॐ सहनाववतु । सहनौभुनक्तु ॥ सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शांतिः शांतिः शांतिः ॥
॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम ॥

Posted by आचार्य राकेश तिवारी at 5:23 AM 


No comments:

Post a Comment